Ujjvala Venkatanath Astotram - Sanskrit language Version - Google Loves ...
Ads Here 768x100
Blessed7 Header AD 728x90

Thursday 16 April 2020

Ujjvala Venkatanath Astotram - Sanskrit language Version

Ujjvala Venkatanath Astotram - Sanskrit language Version

॥ उज्ज्वलवेङ्कटनाथस्तोत्रम् ॥

रङ्गे तुङ्गे कवेराचलजकनकनद्यन्तरङ्गे भुजङ्गे

शेषे शेषे विचिन्वन् जगदवननयं भात्यशेषेऽपि दोषे ।

निद्रामुद्रां दधानो निखिलजनगुणध्यानसान्द्रामतन्द्रां

चिन्तां यां तां वृषाद्रौ विरचयसि रमाकान्त कान्तां शुभान्ताम् ॥ १॥


तां चिन्तां रङ्गक्लृप्तां वृषगिरिशिखरे सार्थयन् रङ्गनाथ

श्रीवत्सं वा विभूषां व्रणकिणमहिराट्सूरिक्लृप्तापराधम् ।

धृत्वा वात्सल्यमत्युज्ज्वलयितुमवने सत्क्रतौ बद्धदीक्षो

बध्नन्स्वीयाङ्घ्रियूपे निखिलनरपशून् गौणरज्ज्वाऽसि यज्वा ॥ २॥


ज्वालारावप्रनष्टासुरनिवहमहाश्रीरथाङ्गाब्जहस्तं

श्रीरङ्गे चिन्तितार्थान्निजजनविषये योक्तुकामं तदर्हान् ।

द्रष्टुं दृष्ट्या समन्ताज्जगति वृषगिरेस्तुङ्गश‍ृङ्गाधिरूढं

दुष्टादुष्टानवन्तं निरुपधिकृपया श्रीनिवासं भजेऽन्तः ॥ ३॥


अन्तः कान्तश्श्रियो नस्सकरुणविलसद्दृक्तरङ्गैरपाङ्गैः

सिञ्चन्मुञ्चन्कृपाम्भःकणगणभरितान्प्रेमपूरानपारान् ।

रूपं चापादचूडं विशदमुपनयन् पङ्कजाक्षं समक्षं

धत्तां हृत्तापशान्त्यै शिशिरमृदुलतानिर्जिताब्जे पदाब्जे ॥ ४॥


अब्जेन सदृशि सन्ततमिन्धे हृत्पुण्डरीककुण्डे यः ।

जडिमार्त आश्रयेऽद्भुतपावकमेतं निरिन्धनं ज्वलितम् ॥ ५॥


ज्वलितनानानागश‍ृङ्गगमणिगणोदितसुपरभागक

घननिभाभाभासुराङ्गक वृषगिरीश्वर वितर शं मम

सुजनतातातायिताखिलहितसुशीतलगुणगणालय

विसृमरारारादुदित्वररिपुभयङ्करकरसुदर्शन ।

सकलपापापारभीकरघनरवाकरसुदर सादरम्

अवतु मामामाघसम्भृतमगणनोचितगुण रमेश्वर

तव कृपा पापाटवीहतिदवहुताशनसमहिमा ध्रुवम्

इतरथाथाथारमस्त्यघगणविमोचनमिह न किञ्चन ॥ ६॥


नगधराराराधने तव वृषगिरीश्वर य इह सादर-

रचितनानानामकौसुमतरुलसन्निजवनविभागज-

सुमकृतां तां तां शुभस्रजमुपहरन् सुखमहिपतिर्गुरुः

अतिरयायायासदायकभवभयानकशठरिपोः किल ।

निगमगा गा गायता यतिपरिबृढेन तु रचय पूरुष

जितसभो भो भोगिराङ्गिरिपतिपदार्चनमिति नियोजितः

इह परं रंरम्यते स्म च तदुदितव्रणचुबुकभूषणे

इह रमे मे मेघरोचिषि भवति हारिणि हृदयरङ्गग ॥ ७॥


गतभये ये ये पदे तव रुचियुता भुवि वृषगिरीश्वर

विदधते ते ते पदार्चनमितरथा गतिविरहिता इति

मतिमता तातायिते त्वयि शरणतां हृदि कलयता परि-

चरणया यायाऽऽयता तव फणिगणाधिपगुरुवरेण तु ।

विरचितां तांतां वनावलिमुपगते त्वयि विहरति द्रुम-

नहनगाङ्गां गामिव श्रियमरचयत्तव स गुरुरस्य च

तदनु तान्तां तां रमां परिजनगिरा द्रुतमवयतो निज-

शिशुदशाशाशालिनीमपि वितरतो वर वितर शं मम ॥ ८॥


ममतया यायाऽऽविला मतिरुदयते मम सपदि तां हर

करुणया याया शुभा मम वितर तामयि वृषगिरीश्वर

सदुदयायायासमृच्छसि न दरमप्यरिविदलनादिषु

मदुदयायायासमीप्ससि न तु कथं मम रिपुजयाय च ।

मयि दयाया यासि केन तु न पदतां ननु निगद तन्मम

मम विभो भो भोगिनायकशयन मे मतमरिजयं दिश

परम याया या दया तव निरवधिं मयि झटिति तामयि

सुमहिमा मा माधव क्षतिमुपगमत्तव मम कृतेऽनघ ॥ ९॥


घटितपापापारदुर्भटपटलदुर्घटनिधनकारण

रणधरारारात्पलायननिजनिदर्शितबहुबलायन

दरवरारारावनाशन मधुविनाशन मम मनोधन

रिपुलयायायाहि पाहि न इदमरं मम कलय पावन ।

सुतरसासासारदृक्ततिरतिशुभा तव निपततान्मयि

सहरमो मोमोत्तु सन्ततमयि भवान्मयि वृषगिरावपि

प्रतिदिनं नंनम्यते मम मन उपेक्षिततदपरं त्वयि

तदरिपापापासनं कुरु वृषगिरीश्वर सततमुज्ज्वल ॥ १०॥


उज्ज्वलवेङ्कटनाथस्तोत्रं पठतां ध्रुवाऽरिविजयश्रीः

श्रीरङ्गोक्तं लसति यदमृतं सारज्ञहृदयसारङ्गे ॥ ११॥


॥ इति उज्ज्वलवेङ्कटनाथस्तोत्रं संपूर्णम् ॥ 

Ujjvala Venkatanath Astotram - Sanskrit language Version 

Other important LINKS of Lord Venkateshwara;


Lord Venkateswara Suprabhatam Lyrics and meanings

GOVINDA NAMAVALI IN ENGLISH

Venkateswara Ashtottara Sata Namavali - Telugu 

 

No comments:

Post a Comment

Blessed7 Header AD 728x90
📌